The Verses
The garland in five chapters, following the arc of Kṛṣṇa's life. Choose a chapter, or search any name, meaning, or story across them all.
The cosmic prologue through the Gokula infancy
I Cosmic Prologue
Verse 1 कृष्णः श्रीवल्लभः शार्ङ्गी विष्वक्सेनः स्वसिद्धिदः । क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः॥ kṛṣṇaḥ, śrīvallabhaḥ … 9 names Verse 2 भक्तिगम्यस् त्रयीमूर्तिर् भारार्तवसुधास्तुतः । देवदेवो दयासिन्धुर् देवदेवशिखामणिः॥ bhaktigamyaḥ, trayīmūrtiḥ … 6 names Verse 3 सुखभावस् सुखाधारो मुकुन्दो मुदिताशयः । अविक्रियः क्रियामूर्तिर् अध्यात्मस्वस्वरूपवान्॥ sukhabhāvaḥ, sukhādhāraḥ … 7 names Verse 4 शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः । अन्तर्यामी कलारूपः कालावयवसाक्षिकः॥ śiṣṭābhilakṣyaḥ, bhūtātmā … 6 names Verse 5 वसुधायासहरणो नारदप्रेरणोन्मुखः । प्रभूष्णुर् नारदोद्गीतो लोकरक्षापरायणः॥ vasudhāyāsaharaṇaḥ, nāradapreraṇonmukhaḥ … 5 names Verse 6 रौहिणेयकृतानन्दो योगज्ञाननियोजकः । महागुहान्तर्निक्षिप्तः पुराणवपुर् आत्मवान्॥ rauhiṇeyakṛtānandaḥ, yogajñānaniyojakaḥ … 5 names Verse 7 शूरवंशैकधीश् शौरिः कंसशङ्काविषादकृत् । वसुदेवोल्लसच्छक्तिर् देवक्यष्टमगर्भगः॥ śūravaṃśaikadhīḥ, śauriḥ … 5 names Verse 8 वसुदेवसुतः श्रीमान् देवकीनन्दनो हरिः । आश्चर्यबालः श्रीवत्सलक्ष्मवक्षाश् चतुर्भुजः॥ vasudevasutaḥ, śrīmān … 7 names Verse 9 स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः । प्राजापत्यर्क्षसम्भूतो निशीथसमयोदितः॥ svabhāvotkṛṣṭasadbhāvaḥ, kṛṣṇāṣṭamyantasambhavaḥ … 4 names Verse 10 शङ्खचक्रगदापद्मपाणिः पद्मनिभेक्षणः । किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः॥ śaṅkhacakragadāpadmapāṇiḥ, padmanibhekṣaṇaḥ … 5 names
II Birth in the Prison
Verse 11 पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः । सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः॥ pītavāsāḥ, ghanaśyāmaḥ … 5 names Verse 12 कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः । वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः॥ kārāgārāndhakāraghnaḥ, pitṛprāgjanmasūcakaḥ … 5 names Verse 13 निरवद्यः क्रियामूर्तिर् न्यायवाक्यनियोजकः । अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः॥ niravadyaḥ, kriyāmūrtiḥ … 6 names Verse 14 महर्षिमानसोल्लासो महीमङ्गलदायकः । सन्तोषितसुरव्रातः साधुचित्तप्रसादकः॥ maharṣimānasollāsaḥ, mahīmaṅgaladāyakaḥ … 4 names Verse 15 जनकोपायनिर्देष्टा देवकीनयनोत्सवः । पितृपाणिपरिष्कारो मोहितागाररक्षकः॥ janakopāyanirdeṣṭā, devakīnayanotsavaḥ … 4 names Verse 16 स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहकः । शेषोरगफणाच्छत्रश् शेषोक्ताख्यासहस्रकः॥ svaśaktyuddhāṭitāśeṣakapāṭaḥ, pitṛvāhakaḥ … 4 names Verse 17 यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः । कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः॥ yamunāpūravidhvaṃsī, svabhāsodbhāsitavrajaḥ … 4 names Verse 18 दुर्गानिवेदितोद्भावो यशोदातल्पशायकः । नन्दगोपोत्सवस्फूर्तिर् व्रजानन्दकरोदयः॥ durgāniveditodbhāvaḥ, yaśodātalpaśāyakaḥ … 4 names Verse 19 सुजातजातकर्म श्रीर् गोपीभद्रोक्तिनिर्वृतः । अलीकनिद्रोपगमः पूतनास्तनपीडनः॥ sujātajātakarmaśrīḥ, gopībhadroktinirvṛtaḥ … 4 names Verse 20 स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः । विन्यस्तरक्षागोधूलिर् यशोदाकरलालितः॥ stanyāttapūtanāprāṇaḥ, pūtanākrośakārakaḥ … 4 names Verse 21 नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः । बालः पर्यङ्कनिद्रालुर् मुखार्पितपदाङ्गुलिः॥ nandāghrātaśiromadhyaḥ, pūtanāsugatipradaḥ … 5 names
III Gokula · Pūtanā · Tṛṇāvarta
Verse 22 अञ्जनस्निग्धनयनः पर्यायाङ्कुरितस्मितः । लीलाक्षस् तरलालोकश् शकटासुरभञ्जनः॥ añjanasnigdhanayanaḥ, paryāyāṅkuritasmitaḥ … 5 names Verse 23 द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः । यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः॥ dvijoditasvastyayanaḥ, mantrapūtajalāplutaḥ … 4 names Verse 24 यशोदास्तन्यमुदितस् तृणावर्तादिदुस्सहः । तृणावर्तासुरध्वंसी मातृविस्मयकारकः॥ yaśodāstanyamuditaḥ, tṛṇāvartādidussahaḥ … 4 names Verse 25 प्रशस्तनामकरणो जानुचङ्क्रमणोत्सुकः । व्यालम्बिचूलिकारत्नो घोषगोपप्रहर्षणः॥ praśastanāmakaraṇaḥ, jānucaṅkramaṇotsukaḥ … 4 names Verse 26 स्वमुखप्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः । पङ्कानुलेपरुचिरो मांसलोरुकटीतटः॥ svamukhapratibimbārthī, grīvāvyāghranakhojjvalaḥ … 4 names Verse 27 घृष्टजानुकरद्वन्द्वः प्रतिबिम्बानुकारकृत् । अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्गमः॥ ghṛṣṭajānukaradvandvaḥ, pratibimbānukārakṛt … 4 names Verse 28 धात्रीकरसमालम्बी प्रस्खलच्चित्रचङ्क्रमः । अनुरूपवयस्याढ्यश् चारुकौमारचापलः॥ dhātrīkarasamālambī, praskhalaccitracaṅkramaḥ … 4 names Verse 29 वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः । विस्मारितान्यव्यापारो गोपगोपीमुदावहः॥ vatsapucchasamākṛṣṭaḥ, vatsapucchavikarṣaṇaḥ … 4 names Verse 30 अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः । नवनीतमहाचोरो दारकाहारदायकः॥ akālavatsanirmoktā, vrajavyākrośasusmitaḥ … 4 names
IV Yamalārjuna · Forest Demons
Verse 31 पीठोलूखलसोपानः क्षीरभाण्डविभेदनः । शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत्॥ pīṭholūkhalasopānaḥ, kṣīrabhāṇḍavibhedanaḥ … 4 names Verse 32 भूषारत्नप्रकाशाढ्यो गोप्युपालम्भभर्त्सितः । परागधूसराकारो मृद्भक्षणकृतेक्षणः॥ bhūṣāratnaprakāśāḍhyaḥ, gopyupālambhabhartsitaḥ … 4 names Verse 33 बालोक्तमृत्कथारम्भो मित्रान्तर्गूढविग्रहः । कृतसन्त्रासलोलाक्षो जननीप्रत्ययावहः॥ bāloktamṛtkathārambhaḥ, mitrāntargūḍhavigrahaḥ … 4 names Verse 34 मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः । यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः॥ mātṛdṛśyāttavadanaḥ, vaktralakṣyacarācaraḥ … 4 names Verse 35 सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः । नवनीतार्थनाप्रह्वो नवनीतमहाशनः॥ savitrīsnehasaṃśliṣṭaḥ, savitrīstanalolupaḥ … 4 names Verse 36 मृषाकोपप्रकम्पोष्ठो गोष्ठाङ्गणविलोकनः । दधिमन्थघटीभेत्ता किङ्किणीक्वाणसूचितः॥ mṛṣākopaprakampoṣṭhaḥ, goṣṭhāṅgaṇavilokanaḥ … 4 names Verse 37 हैयङ्गवीनरसिको मृषाश्रुश् चौर्यशङ्कितः । जननीश्रमविज्ञाता दामबन्धनियन्त्रितः॥ haiyaṅgavīnarasikaḥ, mṛṣāśruḥ … 5 names Verse 38 दामाकल्पश् चलापाङ्गो गाढोलूखलबन्धनः । आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित्॥ dāmākalpaḥ, calāpāṅgaḥ … 6 names Verse 39 नारदोक्तिपरामर्शी यमलार्जुनभञ्जनः । धनदात्मजसङ्घुष्टो नन्दमोचितबन्धनः॥ nāradoktiparāmarśī, yamalārjunabhañjanaḥ … 4 names Verse 40 बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः । आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः॥ bālakodgītanirataḥ, bāhukṣepoditapriyaḥ … 5 names
No verses in this chapter match your search.
The forest years, calf-tending, and the conquest of Kāliya
V Vṛndāvana · Calf-tending
Verse 41 प्रस्थानशकटारूढो बृन्दावनकृतालयः । गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः॥ prasthānaśakaṭārūḍhaḥ, bṛndāvanakṛtālayaḥ … 4 names Verse 42 क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः । वृषवत्सानुकरणो वृषध्वानविडम्बनः॥ kṣepaṇīkṣepaṇaprītaḥ, veṇuvādyaviśāradaḥ … 4 names Verse 43 नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः । उपात्तहंसगमनः सर्वजन्तुरुतानुकृत्॥ niyuddhalīlāsaṃhṛṣṭaḥ, kūjānukṛtakokilaḥ … 4 names Verse 44 भृङ्गानुकारी दध्यन्नचोरो वत्सपुरःसरः । बली बकासुरग्राही बकतालुप्रदाहकः॥ bhṛṅgānukārī, dadhyannacoraḥ … 6 names Verse 45 भीतगोपार्भकाहूतो बकचञ्चुविदारणः । बकासुरारिर् गोपालो बालो बालाद्भुतावहः॥ bhītagopārbhakāhūtaḥ, bakacañcuvidāraṇaḥ … 6 names Verse 46 बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः । क्रीडासेतुनिधानज्ञः प्लवङ्गोत्प्लवनोऽद्भुतः॥ balabhadrasamāśliṣṭaḥ, kṛtakrīḍānilāyanaḥ … 4 names Verse 47 कन्दुकक्रीडनो लुप्तनन्दादिभववेदनः । सुमनोऽलङ्कृतशिराः स्वादुस्निग्धान्नशिक्यभृत्॥ kandukakrīḍanaḥ, luptanandādibhavavedanaḥ … 4 names Verse 48 गुञ्जाप्रालम्बनच्छन्नः पिञ्चैर् अलकवेषकृत् । वन्याशनप्रियः शृङ्गरवाकारितवत्सकः॥ guñjāprālambanacchannaḥ, piñchair alakaveṣakṛt … 4 names Verse 49 मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः । मञ्जुशिञ्जितमञ्जीरचरणः करकङ्कणः॥ manojñapallavottaṃsaḥ, puṣpasvecchāttaṣaṭpadaḥ … 4 names Verse 50 अन्योन्यशासनः क्रीडापटुः परमकैतवः । प्रतिध्वानप्रमुदितः शाखाचतुरचङ्क्रमः॥ anyonyaśāsanaḥ, krīḍāpaṭuḥ … 5 names
VI Aghāsura · Brahma-vimohana
Verse 51 अघदानवसंहर्ता व्रजविघ्नविनाशनः । व्रजसञ्जीवनः श्रेयोनिधिर् दानवमुक्तिदः॥ aghadānavasaṃhartā, vrajavighnavināśanaḥ … 5 names Verse 52 कालिन्दीपुलिनासीनः सहभुक्तव्रजार्भकः । कक्षाजठरविन्यस्तवेणुर् वल्लवचेष्टितः॥ kālindīpulināsīnaḥ, sahabhuktavrajārbhakaḥ … 4 names Verse 53 भुजसन्ध्यन्तरन्यस्तशृङ्गवेत्रः शुचिस्मितः । वामपाणिस्थदध्यन्नकबलः कलभाषणः॥ bhujasandhyantaranyastaśṛṅgavetraḥ, śucismitaḥ … 4 names Verse 54 अङ्गुल्यन्तरविन्यस्तफलः परमपावनः । अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा॥ aṅgulyantaravinyastaphalaḥ, paramapāvanaḥ … 4 names Verse 55 अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः । गोवत्सवत्सपान्वेषी विराट्पुरुषविग्रहः॥ adṛṣṭavatsapavrātaḥ, brahmavijñātavaibhavaḥ … 4 names Verse 56 स्वसङ्कल्पानुरूपार्थो वत्सवत्सपरूपधृक् । यथावत्सक्रियारूपो यथास्थाननिवेशनः॥ svasaṅkalpānurūpārthaḥ, vatsavatsaparūpadhṛk … 4 names Verse 57 यथाव्रजार्भकाकारो गोगोपीस्तन्यपः सुखी । चिराद्बलोहितो दान्तो ब्रह्मविज्ञातवैभवः॥ yathāvrajārbhakākāraḥ, gogopīstanyapaḥ … 6 names Verse 58 विचित्रशक्तिर् व्यालीनसृष्टगोवत्सवत्सपः । ब्रह्मत्रपाकरो धातृस्तुतः सर्वार्थसाधकः॥ vicitraśaktiḥ, vyālīnasṛṣṭagovatsavatsapaḥ … 5 names Verse 59 ब्रह्म ब्रह्ममयोऽव्यक्तस् तेजोरूपः सुखात्मकः । निरुक्तं व्याकृतिर् व्यक्तो निरालम्बनभावनः॥ brahma, brahmamayaḥ … 9 names Verse 60 प्रभविष्णुर् अतन्त्रीको देवपक्षार्थरूपधृक् । अकामः सर्ववेदादिर् अणीयस्थूलरूपवान्॥ prabhaviṣṇuḥ, atantrīkaḥ … 6 names
VII Kāliya-mardana
Verse 61 व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः । चन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः॥ vyāpī, vyāpyaḥ … 7 names Verse 62 अनेकमूर्तिर् अक्रोधः परः प्रकृतिर् अक्रमः । सकलावरणोपेतः सर्वदेवो महेश्वरः॥ anekamūrtiḥ, akrodhaḥ … 8 names Verse 63 महाप्रभावनः पूर्ववत्सवत्सपदर्शकः । कृष्णयादवगोपालो गोपालोकनहर्षितः॥ mahāprabhāvanaḥ, pūrvavatsavatsapadarśakaḥ … 4 names Verse 64 स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः । ब्रह्मानन्दाश्रुधौताङ्घ्रिर् लीलावैचित्र्यकोविदः॥ smitekṣāharṣitabrahmā, bhaktavatsalavākpriyaḥ … 4 names Verse 65 बलभद्रैकहृदयो नामाकारितगोकुलः । गोपालबालको भव्यो रज्जुयज्ञोपवीतवान्॥ balabhadraikahṛdayaḥ, nāmākāritagokulaḥ … 5 names Verse 66 वृक्षच्छायाहताशान्तिर् गोपोत्सङ्गोपबर्हणः । गोपसंवाहितपदो गोपव्यजनवीजितः॥ vṛkṣacchāyāhatāśāntiḥ, gopotsaṅgopabarhaṇaḥ … 4 names Verse 67 गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः । सुनन्दसुहृदेकात्मा सुबलप्राणरञ्जनः॥ gopagānasukhonnidraḥ, śrīdāmārjitasauhṛdaḥ … 4 names
VIII Forest Fires · Demons
Verse 68 तालीवनकृतक्रीडो बलपातितधेनुकः । गोपीसौभाग्यसम्भाव्यो गोधूलिच्छुरितालकः॥ tālīvanakṛtakrīḍaḥ, balapātitadhenukaḥ … 4 names Verse 69 गोपीविरहसन्तप्तो गोपिकाकृतमज्जनः । प्रलम्बबाहुर् उत्फुल्लपुण्डरीकावतंसकः॥ gopīvirahasantaptaḥ, gopikākṛtamajjanaḥ … 4 names Verse 70 विलासललितस्मेरगर्भलीलावलोकनः । स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक्॥ vilāsalalitasmeragarbhalīlāvalokanaḥ, sragbhūṣaṇānulepāḍhyaḥ … 3 names Verse 71 वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः । यमुनातटसञ्चारी विषार्तव्रजहर्षदः॥ varaśayyāśayaḥ, rādhāpremasallāpanirvṛtaḥ … 4 names Verse 72 कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः । कालियाहिफणारङ्गनटः कालियमर्दनः॥ kāliyakrodhajanakaḥ, vṛddhāhikulaveṣṭitaḥ … 4 names Verse 73 नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् । अविष्वक्तदृगात्मेशः स्वदृगात्मस्तुतिप्रियः॥ nāgapatnīstutiprītaḥ, nānāveṣasamṛddhikṛt … 4 names Verse 74 सर्वेश्वरः सर्वगुणः प्रसिद्धः सर्वसात्वतः । अकुण्ठधामा चन्द्रार्कदृष्टिर् आकाशनिर्मलः॥ sarveśvaraḥ, sarvaguṇaḥ … 7 names Verse 75 अनिर्देश्यगतिर् नागवनितापतिभैक्षदः । स्वाङ्घ्रिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः॥ anirdeśyagatiḥ, nāgavanitāpatibhaikṣadaḥ … 4 names Verse 76 अभयो विश्वतश्चक्षुः स्तुतोत्तमगुणः प्रभुः । अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान्॥ abhayaḥ, viśvataścakṣuḥ … 8 names Verse 77 नागोपायनहृष्टात्मा ह्रदोत्सारितकालियः । बलभद्रसुखालापो गोपालिङ्गननिर्वृतः॥ nāgopāyanahṛṣṭātmā, hradotsāritakāliyaḥ … 4 names Verse 78 दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः । नयनाच्छादनक्रीडालम्पटो नृपचेष्टितः॥ dāvāgnibhītagopālagoptā, dāvāgnināśanaḥ … 4 names Verse 79 काकपक्षधरः सौम्यो बलवाहककेलिमान् । बलघातितदुर्धर्षप्रलम्बो बलवत्सलः॥ kākapakṣadharaḥ, saumyaḥ … 5 names Verse 80 मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान् । शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः॥ muñjāṭavyagniśamanaḥ, prāvṛṭkālavinodavān … 5 names
No verses in this chapter match your search.
The Veṇu-gīta, the Rāsa-līlā, and the journey to Mathurā
IX Veṇu-gīta · Gopī-vastra
Verse 81 सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः । नटवेषधरः पद्ममालाङ्को गोपिकावृतः॥ sadāptagopikodgītaḥ, karṇikārāvataṃsakaḥ … 5 names Verse 82 गोपीमनोहरापाङ्गो वेणुवादनतत्परः । विन्यस्तवदनाम्भोजश् चारुशब्दकृताननः॥ gopīmanoharāpāṅgaḥ, veṇuvādanatatparaḥ … 4 names Verse 83 बिम्बाधरार्पितोदारवेणुर् विश्वविमोहनः । व्रजसंवर्णितश्राव्यवेणुनादः श्रुतिप्रियः॥ bimbādharārpitodāraveṇuḥ, viśvavimohanaḥ … 4 names Verse 84 गोगोपगोपीजन्मेप्सुर् ब्रह्मेन्द्राद्यभिवन्दितः । गीतस्नुतिसरित्पूरो नादनर्तितबर्हिणः॥ gogopagopījanmepsuḥ, brahmendrādyabhivanditaḥ … 4 names Verse 85 रागपल्लवितस्थाणुर् गीतानमितपादपः । विस्मारिततृणग्रासमृगो मृगविलोभितः॥ rāgapallavitasthāṇuḥ, gītānamitapādapaḥ … 4 names Verse 86 व्याघ्रादिहिंस्रसहजवैरहर्ता सुगायनः । गाढोदीरितगोबृन्दप्रेमोत्कर्णिततर्णकः॥ vyāghrādihiṃsrasahajavairahartā, sugāyanaḥ … 3 names Verse 87 निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः । शाखोत्कर्णशकुन्तौघश् चत्रायितबलाहकः॥ niṣpandayānabrahmādivīkṣitaḥ, viśvavanditaḥ … 4 names Verse 88 प्रसन्नः परमानन्दश् चित्रायितचराचरः । गोपिकामदनो गोपीकुचकुङ्कुममुद्रितः॥ prasannaḥ, paramānandaḥ … 5 names Verse 89 गोपकन्याजलक्रीडाहृष्टो गोप्यंशुकापहृत् । स्कन्धारोपितगोपस्त्रीवासाः कुन्दनिभस्मितः॥ gopakanyājalakrīḍāhṛṣṭaḥ, gopyaṃśukāpahṛt … 4 names Verse 90 गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः । गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः॥ gopīnetrotpalaśaśī, gopikāyācitāṃśukaḥ … 4 names
X Brahmin-wives · Govardhana
Verse 91 गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः । शान्तवासस्फुरद्गोपीकृताञ्जलिर् अघापहः॥ gopyañjaliviśeṣārthī, gopakrīḍāvilobhitaḥ … 4 names Verse 92 गोपीकेलिविलासार्थी गोपीसम्पूर्णकामदः । गोपस्त्रीवस्त्रदो गोपीचित्तचोरः कुतूहली॥ gopīkelivilāsārthī, gopīsampūrṇakāmadaḥ … 5 names Verse 93 बृन्दावनप्रियो गोपबन्धुर् यज्वान्नयाचिता । यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवाञ्चितः॥ bṛndāvanapriyaḥ, gopabandhuḥ … 6 names Verse 94 मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः । द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः॥ munipatnīvitīrṇānnatṛptaḥ, munivadhūpriyaḥ … 4 names Verse 95 प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहिता । मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित्॥ pratiruddhasatīmokṣapradaḥ, dvijavimohitā … 5 names
XI Rāsa-līlā
Verse 96 पितृप्रोक्तक्रियारूपशक्रयागनिवारणः । शक्रामर्षकरश् शक्रवृष्टिप्रशमनोन्मुखः॥ pitṛproktakriyārūpaśakrayāganivāraṇaḥ, śakrāmarṣakaraḥ … 3 names Verse 97 गोवर्धनधरो गोपगोबृन्दत्राणतत्परः । गोवर्धनगिरिच्छत्रचण्डदण्डभुजार्गलः॥ govardhanadharaḥ, gopagobṛndatrāṇatatparaḥ … 3 names Verse 98 सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा । भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः॥ saptāhavidhṛtādrīndraḥ, meghavāhanagarvahā … 4 names Verse 99 स्वस्थानस्थापितगिरिर् गोपीदध्यक्षतार्चितः । सुमनःसुमनोवृष्टिहृष्टो वासववन्दितः॥ svasthānasthāpitagiriḥ, gopīdadhyakṣatārcitaḥ … 5 names Verse 100 कामधेनुपयःपूराभिषिक्तः सुरभिस्तुतः । धराङ्घ्रिरोषधीरोमा धर्मगोप्ता मनोमयः॥ kāmadhenupayaḥpūrābhiṣiktaḥ, surabhistutaḥ … 5 names Verse 101 ज्ञानयज्ञप्रियश् शास्त्रनेत्रः सर्वार्थसारथिः । ऐरावतकरानीतवियद्गङ्गाप्लुतो विभुः॥ jñānayajñapriyaḥ, śāstranetraḥ … 5 names
XII Mathurā · Akrūra
Verse 102 ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभङ्करः । सर्ववेदमयो मग्ननन्दान्वेषिपितृप्रियः॥ brahmābhiṣiktaḥ, gogoptā … 5 names Verse 103 वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः । वरुणानीतजनको गोपज्ञातात्मवैभवः॥ varuṇodīritātmekṣākautukaḥ, varuṇārcitaḥ … 4 names Verse 104 स्वर्लोकालोकसंहृष्टगोपवर्गत्रिवर्गदः । ब्रह्महृद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः॥ svarlokālokasaṃhṛṣṭagopavargatrivargadaḥ, brahmahṛdgopitaḥ … 4 names Verse 105 शरत्चन्द्रविहारोत्कः श्रीपतिर् वशको क्षमः । भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः॥ śaratcandravihārotkaḥ, śrīpatiḥ … 6 names Verse 106 गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः । गोपिकामानहरणो गोपिकाशतयूथपः॥ gopikānayanāsvādyaḥ, gopīnarmoktinirvṛtaḥ … 4 names Verse 107 वैजयन्तीस्रगाकल्पो गोपिकामानवर्धनः । गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः॥ vaijayantīsragākalpaḥ, gopikāmānavardhanaḥ … 5 names
XIII Wrestling · Kaṃsa
Verse 108 स्वात्मास्यदत्तताम्बूलः फलितोत्कृष्टयौवनः । वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः॥ svātmāsyadattatāmbūlaḥ, phalitotkṛṣṭayauvanaḥ … 4 names Verse 109 गोपीचेलाञ्चलासीनो गोपीनेत्राब्जषट्पदः । रासक्रीडासमासक्तो गोपीमण्डलमण्डनः॥ gopīcelāñcalāsīnaḥ, gopīnetrābjaṣaṭpadaḥ … 4 names Verse 110 गोपीहेममणिश्रेणिमध्येन्द्रमणिर् उज्ज्वलः । विद्याधरेन्दुशापघ्नश् शङ्खचूडशिरोहरः॥ gopīhemamaṇiśreṇimadhyendramaṇiḥ, ujjvalaḥ … 4 names Verse 111 शङ्खचूडशिरोरत्नसम्प्रीणितबलोऽनघः । अरिष्टारिष्टकृद् दुष्टकेशिदैत्यनिषूदनः॥ śaṅkhacūḍaśiroratnasamprīṇitabalaḥ, anaghaḥ … 4 names Verse 112 सरसः सस्मितमुखः सुस्थिरो विरहाकुलः । सङ्कर्षणार्पितप्रीतिर् अक्रूरध्यानगोचरः॥ sarasaḥ, sasmitamukhaḥ … 6 names Verse 113 अक्रूरसंस्तुतो गूढो गुणवृत्युपलक्षितः । प्रमाणगम्यस् तन्मात्रावयवी बुद्धितत्परः॥ akrūrasaṃstutaḥ, gūḍhaḥ … 6 names Verse 114 सर्वप्रमाणप्रमधीः सर्वप्रत्ययसाधकः । पुरुषश् च प्रधानात्मा विपर्यासविलोचनः॥ sarvapramāṇapramadhīḥ, sarvapratyayasādhakaḥ … 5 names Verse 115 मधुराजनसंवीक्ष्यो रजकप्रतिघातकः । विचित्राम्बरसंवीतो मालाकारवरप्रदः॥ madhurājanasaṃvīkṣyaḥ, rajakapratighātakaḥ … 4 names Verse 116 कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः । कुब्जाङ्गरागसुरभिः कंसकोदण्डखण्डनः॥ kubjāvakratvanirmoktā, kubjāyauvanadāyakaḥ … 4 names Verse 117 धीरः कुवलयापीडमर्दनः कंसभीतिकृत् । दन्तिदन्तायुधो रङ्गत्रासको मल्लयुद्धवित्॥ dhīraḥ, kuvalayāpīḍamardanaḥ … 6 names Verse 118 चाणूरहन्ता कंसारिर् देवकीहर्षदायकः । वसुदेवपदानम्रः पितृबन्धविमोचनः॥ cāṇūrahantā, kaṃsāriḥ … 5 names Verse 119 उर्वीभयापहो भूप उग्रसेनाधिपत्यदः । आज्ञास्थितशचीनाथः सुधर्मानयनक्षमः॥ urvībhayāpahaḥ, bhūpaḥ … 5 names Verse 120 आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः । सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीः सुधीः॥ ādyaḥ, dvijātisatkartā … 5 names
No verses in this chapter match your search.
Dvārakā, the queens, and the turn toward the great war
XIV Sāndīpani · Pāñcajanya
Verse 121 गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः । हतपञ्चजनप्राप्तपाञ्चजन्यो यमार्चितः॥ gurvabhīṣṭakriyādakṣaḥ, paścimōdadhipūjitaḥ … 4 names Verse 122 धर्मराजजयानीतगुरुपुत्र उरुक्रमः । गुरुपुत्रप्रदश्शास्ता मधुराजसभासदः॥ dharmarājajayānītaguruputraḥ, urukramaḥ … 5 names Verse 123 जामदग्न्यसमभ्यर्च्यो गोमन्तगिरिसञ्चरः । गोमन्तदावशमनो गरुडानीतभूषणः॥ jāmadagnyasamabhyarcyaḥ, gōmantagirisañcaraḥ … 4 names Verse 124 चक्राद्यायुधसंशोभी जरासन्धमदापहः । सृगालावनिपालघ्नस्सृगालात्मजराज्यदः॥ cakrādyāyudhasaṃśobhī, jarāsandhamadāpahaḥ … 4 names Verse 125 विध्वस्तकालयवनो मुचुकुन्दवरप्रदः । आज्ञापितमहाम्भोधिर्द्वारकापुरकल्पनः॥ vidhvastakālayavanaḥ, mucukundavarapradaḥ … 4 names
XV Dvārakā · Rukmiṇī
Verse 126 द्वारकानिलयो रुक्मिमानहन्ता यदूद्वहः । रुचिरो रुक्मिणीजानिः प्रद्युम्नजनकः प्रभुः॥ dvārakānilayaḥ, rukmimānahantā … 7 names Verse 127 अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः । अनिरुद्धपदान्वेषी चक्री गरुडवाहनः॥ apākṛtatrilokārtiḥ, aniruddhapitāmahaḥ … 5 names Verse 128 बाणासुरपुरीरोद्धा रक्षाज्वलनयन्त्रजित् । धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः॥ bāṇāsurapurīroddhā, rakṣājvalanayantrajit … 4 names Verse 129 षट्चक्रशक्तिनिर्जेता भूतवेतालमोहकृत् । शम्भुत्रिशूलजिच्छम्भुजृम्भणश्शम्भुसंस्तुतः॥ ṣaṭcakraśaktinirjetā, bhūtavetālamohakṛt … 5 names Verse 130 इन्द्रियात्मेन्दुहृदयस्सर्वयोगेश्वरेश्वरः । हिरण्यगर्भहृदयो मोहावर्तनिवर्तनः॥ indriyātmenduhṛdayaḥ, sarvayogeśvareśvaraḥ … 4 names Verse 131 आत्मज्ञाननिधिर्मेधा कोशस्तन्मात्ररूपवान् । इन्द्रोऽग्निवदनः कालनाभस्सर्वागमाध्वगः॥ ātmajñānanidhiḥ, medhā … 8 names Verse 132 तुरीयसर्वधीसाक्षी द्वन्द्वारामात्मदूरगः । अज्ञातपारो वश्यश्रीरव्याकृतविहारवान्॥ turīyasarvadhīsākṣī, dvandvārāmātmadūragaḥ … 5 names Verse 133 आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः । बाणबाहुवनच्छेत्ता महेन्द्रप्रीतिवर्धनः॥ ātmapradīpaḥ, vijñānamātrātmā … 5 names Verse 134 अनिरुद्धनिरोधज्ञो जलेशाहृतगोकुलः । जलेशविजयी वीरस्सत्राजिद्रत्नयाचकः॥ aniruddhanirodhajñaḥ, jaleśāhṛtagokulaḥ … 5 names Verse 135 प्रसेनान्वेषणोद्युक्तो जाम्बवद्धृतरत्नदः । जितर्क्षराजतनयाहर्ता जाम्बवतीप्रियः॥ prasenānveṣaṇodyuktaḥ, jāmbavaddhṛtaratnadaḥ … 4 names
XVI Bāṇāsura · Pārijāta
Verse 136 सत्यभामाप्रियः कामश्शतधन्वशिरोहरः । कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः॥ satyabhāmāpriyaḥ, kāmaḥ … 6 names Verse 137 कैकेयीरमणो भद्राभर्ता नाग्नजितीधवः । माद्रीमनोहरश्शैब्याप्राणबन्धुरुरुक्रमः॥ kaikeyīramaṇaḥ, bhadrābhartā … 6 names Verse 138 सुशीलादयितो मित्रविन्दानेत्रमहोत्सवः । लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः॥ suśīlādayitaḥ, mitravindānetramahōtsavaḥ … 4 names Verse 139 सुरपाशावृतिच्छेदी मुरारिः क्रूरयुद्धवित् । हयग्रीवशिरोहर्ता सर्वात्मा सर्वदर्शनः॥ surapāśāvṛticchedī, murāriḥ … 6 names Verse 140 नरकासुरविच्छेत्ता नरकात्मजराज्यदः । पृथ्वीस्तुतः प्रकाशात्मा हृद्यो यज्ञफलप्रदः॥ narakāsuravicchetā, narakātmajarājyadaḥ … 6 names Verse 141 गुणग्राही गुणद्रष्टा गूढस्वात्मा विभूतिमान् । कविर्जगदुपद्रष्टा परमाक्षरविग्रहः॥ guṇagrāhī, guṇadraṣṭā … 7 names Verse 142 प्रपन्नपालनो माली महद्ब्रह्मविवर्धनः । वाच्यवाचकशक्त्यर्थस्सर्वव्याकृतसिद्धिदः॥ prapannapālanaḥ, mālī … 5 names Verse 143 स्वयम्प्रभुरनिर्वेद्यस्वप्रकाशश्चिरन्तनः । नादात्मा मन्त्रकोटीशो नानावादनिरोधकः॥ svayamprabhur, anirvēdyaḥ … 7 names
XVII Queens · Syamantaka
Verse 144 कन्दर्पकोटिलावण्यः परार्थैकप्रयोजकः । अमरीकृतदेवौघः कन्यकाबन्धमोचनः॥ kandarpakōṭilāvaṇyaḥ, parārthaikaprayojakaḥ … 4 names Verse 145 षोडशस्त्रीसहस्रेशः कान्तः कान्तामनोभवः । क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः॥ ṣōḍaśastrīsahasreśaḥ, kāntaḥ … 5 names Verse 146 शक्राभिवन्दितश्शक्रजननीकुण्डलप्रदः । अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्घुष्टचेष्टनः॥ śakrābhivanditaḥ, śakrajananīkuṇḍalapradaḥ … 4 names Verse 147 पुराणस्संयमी जन्मालिप्तः षड्विंशकोऽर्थदः । यशस्यनीतिराद्यन्तरहितस्सत्कथाप्रियः॥ purāṇaḥ, saṃyamī … 8 names Verse 148 ब्रह्मबोधः परानन्दः पारिजातापहारकः । पौण्ड्रकप्राणहरणः काशिराजनिषूदनः॥ brahmabodhaḥ, parānandaḥ … 5 names Verse 149 कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः । कंसविध्वंसनस्साम्बजनको डिम्भकार्दनः॥ kṛtyāgarvapraśamanaḥ, vicakravadhadīkṣitaḥ … 5 names Verse 150 मुनिर्गोप्ता पितृवरप्रदस्सवनदीक्षितः । रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः॥ muniḥ, goptā … 8 names Verse 151 सप्ताब्धिस्तम्भनोद्भातो हरिस्सप्ताब्धिभेदनः । आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः॥ saptābdhistambhanōdbhātaḥ, harisaptābdhibhedanaḥ … 5 names Verse 152 विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः । पार्थविस्मयकृत्पार्थप्रणवार्थप्रबोधनः॥ vipraputrapradaḥ, sarvamātṛsutapradaḥ … 3 names
XVIII Late Dvārakā · Mahābhārata
Verse 153 कैलासयात्रासुमुखो बदर्याश्रमभूषणः । घण्टाकर्णक्रियामौढ्यात्तोषितो भक्तवत्सलः॥ kailāsayātrāsumukhaḥ, badaryāśramabhūṣaṇaḥ … 4 names Verse 154 मुनिबृन्दादिभिर्ध्येयो घण्टाकर्णवरप्रदः । तपश्चर्यापरश्चीरवासाः पिङ्गजटाधरः॥ munibṛndādibhirdhyeyaḥ, ghaṇṭākarṇavarapradaḥ … 5 names Verse 155 प्रत्यक्षीकृतभूतेशश्शिवस्तोता शिवस्तुतः । कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः॥ pratyakṣīkṛtabhūteśaḥ, śivastotā … 5 names Verse 156 बलसंरम्भशमनो बलदर्शितपाण्डवः । यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः॥ balasaṃrambhaśamanaḥ, baladarśitapāṇḍavaḥ … 4 names Verse 157 सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः । खाण्डवप्रीणितार्चिष्मान्मयदानवमोचनः॥ subhadrāphālgunodvāhakartā, prīṇitaphālgunaḥ … 4 names Verse 158 सुलभो राजसूयार्हयुधिष्ठिरनियोजकः । भीमार्दितजरासन्धो मागधात्मजराज्यदः॥ sulabhaḥ, rājasūyārhayudhiṣṭhiraniyojakaḥ … 4 names Verse 159 राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः । चैद्याद्यसहनो भीष्मस्तुतस्सात्वतपूर्वजः॥ rājabandhananirmoktā, rājasūyāgrapūjanaḥ … 5 names Verse 160 सर्वात्मार्थसमाहर्ता मन्दराचलधारकः । यज्ञावतारः प्रह्लादप्रतिज्ञाप्रतिपालकः॥ sarvātmārthasamāhartā, mandarācaladhārakaḥ … 4 names
No verses in this chapter match your search.
The Mahābhārata war and the eternal return
XIX Avatāra Synthesis · Draupadī
Verse 161 बलियज्ञसभाध्वंसी दृप्तक्षत्रकुलान्तकः । दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः॥ baliyajñasabhādhvaṃsī, dṛptakṣatrakulāntakaḥ … 5 names Verse 162 सर्वावताराधिष्ठाता वेदबाह्यविमोहनः । कलिदोषनिराकर्ता दशनामा दृढव्रतः॥ sarvāvatārādhiṣṭhātā, vedabāhyavimohanaḥ … 5 names Verse 163 अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः । द्रौपदीरचितस्तोत्रः केशवः पुरुषोत्तमः॥ ameyātmā, jagatsvāmī … 7 names Verse 164 नारायणो मधुपतिर्माधवो दोषवर्जितः । गोविन्दः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः॥ nārāyaṇaḥ, madhupatir … 8 names Verse 165 त्रिविक्रमस्त्रिलोकेशो वामनः श्रीधरः पुमान् । हृषीकेशो वासुदेवः पद्मनाभो महाह्रदः॥ trivikramaḥ, trilokēśaḥ … 9 names Verse 166 दामोदरश्चतुर्व्यूहः पाञ्चालीमानरक्षणः । साल्वघ्नस्समरश्लाघी दन्तवक्त्रनिबर्हणः॥ dāmodaraḥ, caturvyūhaḥ … 6 names
XX Embassy · War
Verse 167 दामोदरप्रियसखा पृथुकास्वादनप्रियः । घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः॥ dāmodarapriyasakhā, pṛthukāsvādanapriyaḥ … 6 names Verse 168 गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः । अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी॥ gopikāmuktidaḥ, yogī … 5 names Verse 169 पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदूत्यकृत् । विदुरातिथ्यसन्तुष्टः कुन्तीसन्तोषदायकः॥ pārthasārathyanirataḥ, prājñaḥ … 5 names Verse 170 सुयोधनतिरस्कर्ता दुर्योधनविकारवित् । विदुराभिष्ठुतो नित्यो वार्ष्णेयो मङ्गलात्मकः॥ suyōdhanatiraskartā, duryōdhanavikāravit … 6 names Verse 171 पञ्चविंशतितत्त्वेशश्चतुर्विंशतिदेहभाक् । सर्वानुग्राहकस्सर्वदाशार्हसततार्चितः॥ pañcaviṃśatitattveśaḥ, caturviṃśatidehabhāk … 4 names Verse 172 अचिन्त्यो मधुरालापस्साधुदर्शी दुरासदः । मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षिता॥ acintyaḥ, madhurālāpaḥ … 6 names Verse 173 उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः । ब्रह्मण्यदेवः श्रुतिमान् गोब्राह्मणहिताशयः॥ upendraḥ, dānavārātiḥ … 7 names Verse 174 वरशीलश्शिवारम्भस्सुविज्ञानविमूर्तिमान् । स्वभावशुद्धस्सन्मित्रस्सुशरण्यस्सुलक्षणः॥ varaśīlaḥ, śivārambhaḥ … 7 names Verse 175 धृतराष्ट्रगतौदृष्टिप्रदः कर्णविभेदनः । प्रतोदधृग्विश्वरूपविस्मारितधनञ्जयः॥ dhṛtarāṣṭragataudṛṣṭipradaḥ, karṇavibhedanaḥ … 4 names Verse 176 सामगानप्रियो धर्मधेनुर्वर्णोत्तमोऽव्ययः । चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः॥ sāmagānapriyaḥ, dharmadhenuḥ … 6 names Verse 177 ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत् । अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः॥ brahmabodhaparitrātapārthaḥ, bhīṣmārthacakrabhṛt … 4 names Verse 178 सुजातानन्तमहिमा स्वप्नव्यापारितार्जुनः । अकालसन्ध्याघटनश्चक्रान्तरितभास्करः॥ sujātānantamahimā, svapnavyāpāritārjunaḥ … 4 names Verse 179 दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः । सिन्धुराजशिरःपातस्थानवक्ता विवेकदृक्॥ duṣṭapramathanah, pārthapratijñāparipālakaḥ … 4 names Verse 180 सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः । पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः॥ subhadrāśokaharaṇaḥ, droṇotsekādivismitaḥ … 4 names
XXI Bhīṣma · Parīkṣit
Verse 181 अङ्गुष्ठाक्रान्तकौन्तेयरथश्शक्तोऽहिशीर्षजित् । कालकोपप्रशमनो भीमसेनजयप्रदः॥ aṅguṣṭhākrāntakaunteyarathaḥ, śaktaḥ … 5 names Verse 182 अश्वत्थामवधायासत्रातपाण्डुसुतः कृती । इषीकास्त्रप्रशमनो द्रौणिरक्षाविचक्षणः॥ aśvatthāmavadhāyāsatrātapāṇḍusutaḥ, kṛtī … 4 names Verse 183 पार्थापहारितद्रौणिचूडामणिरभङ्गुरः । धृतराष्ट्रपरामृष्टभीमप्रतिकृतिस्मयः॥ pārthāpahāritadrauṇicūḍāmaṇirabhaṅguraḥ, dhṛtarāṣṭraparāmṛṣṭabhīmapratikṛtismayaḥ 2 names Verse 184 भीष्मबुद्धिप्रदश्शान्तश्शरच्चन्द्रनिभाननः । गदाग्रजन्मा पाञ्चालीप्रतिज्ञापरिपालकः॥ bhīṣmabuddhipradaḥ, śāntaḥ … 5 names Verse 185 गान्धारीकोपदृग्गुप्तधर्मसूनुरनामयः । प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यधावहः॥ gāndhārīkōpadṛgguptadharmasūnuranāmayaḥ, prapannārtibhayacchetā … 3 names Verse 186 शान्तश्शान्तनवोदीर्णसर्वधर्मसमाहितः । स्मारितब्रह्मविद्यार्थप्रीतपार्थो महास्त्रवित्॥ śāntaḥ, śāntanavōdīrṇasarvadharmasamāhitaḥ … 4 names Verse 187 प्रसादपरमोदारो गाङ्गेयसुगतिप्रदः । विपक्षपक्षक्षयकृत्परीक्षित्प्राणरक्षणः॥ prasādaparamōdāraḥ, gāṅgeyasugatipradaḥ … 4 names Verse 188 जगद्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः । विहितार्थाप्तसत्कारो मासकात्परिवर्तदः॥ jagadguruḥ, dharmasūnorvājimedhapravartakaḥ … 4 names Verse 189 उत्तङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकः । जनकावगतस्वोक्तभारतस्सर्वभावनः॥ uttaṅkaharṣadātmīyadivyarūpapradarśakaḥ, janakāvagatasvōktabhāratassarvabhāvanaḥ 2 names
XXII Yādava Twilight · Departure
Verse 190 असोढयादवोद्रेको विहिताप्तादिपूजनः । समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः॥ asōḍhayādavōdrēkaḥ, vihitāptādipūjanaḥ … 4 names Verse 191 मुनिशापायुधः पद्मासनादित्रिदशार्थितः । वृष्टिप्रत्यवहारोत्कस्स्वधामगमनोत्सुकः॥ muniśāpāyudhaḥ, padmāsanāditridaśārthitaḥ … 4 names Verse 192 प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत् । सर्वयादवसंसेव्यस्सर्वोत्कृष्टपरिच्छदः॥ prabhāsālōkanōdyuktaḥ, nānāvidhanimittakṛt … 4 names Verse 193 वेलाकाननसञ्चारी वेलानिलहृतश्रमः । कालात्मा यादवोऽनन्तस्स्तुतिसन्तुष्टमानसः॥ velākānanasañcārī, velānilahṛtaśramaḥ … 6 names Verse 194 द्विजालोकनसन्तुष्टः पुण्यतीर्थमहोत्सवः । सत्काराह्लादिताशेषभूसुरस्सुरवल्लभः॥ dvijālōkanasantuṣṭaḥ, puṇyatīrthamahōtsavaḥ … 4 names Verse 195 पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः । विप्रसात्कृतगोकोटिश्शतकोटिसुवर्णदः॥ puṇyatīrthāplutaḥ, puṇyaḥ … 6 names Verse 196 स्वमायामोहिताशेषवृष्णिवीरो विशेषवित् । जलजायुधनिर्देष्टा स्वात्मावेशितयादवः॥ svamāyāmōhitāśeṣavṛṣṇivīraḥ, viśeṣavit … 4 names Verse 197 देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः । स्थिरशेषायुतबलस्सहस्रफणिवीक्षणः॥ devatābhīṣṭavaradaḥ, kṛtakṛtyaḥ … 4 names Verse 198 ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः । प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः॥ brahmavṛkṣavaracchāyāsīnaḥ, padmāsanasthitaḥ … 5 names Verse 199 व्याधेषुविद्धपूज्याङ्घ्रिर्निषादभयमोचनः । पुलिन्दस्तुतिसन्तुष्टः पुलिन्दसुगतिप्रदः॥ vyādhēṣuviddhapūjyāṅghriḥ, niṣādabhayamocanaḥ … 4 names Verse 200 दारुकार्पितपार्थादिकरणीयोक्तिरीशिता । दिव्यदुन्दुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः॥ dārukārpitapārthādikaraṇīyōktirīśitā, divyadundubhisaṃyuktaḥ … 3 names Verse 201 पुराणः परमेशानः पूर्णभूमा परिष्टुतः । पतिराद्यः परं ब्रह्म परमात्मा परात्परः॥ purāṇaḥ, parameśānaḥ … 9 names
No verses in this chapter match your search.